महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
॥ प्रथमोऽध्यायः ॥ ॥ समा॑धि-पा॒दः ॥
अ॒थ योगानु॑शास॒नम् ॥ १.१॥
योगश्चित्तवृत्ति॑निरो॒धः ॥ १.२॥
त॒दा द्र॒ष्टुः स्व॒रू॒पेऽ॑वस्था॒नम् ॥ १.३॥
वृत्तिसारूप्यमि॑तर॒त्र ॥ १.४॥
वृ॒त्त॒यः पञ्चतय्यः क्लि॑ष्टाऽक्लि॒ष्टाः ॥ १.५॥
प्र॒मा॒णवि॒प॒र्ययवि॒क॒ल्पनि॒द्रास्मृ॒तयः॑ ॥ १.६॥
प्र॒त्यक्षा॒नु॒माना॒ग॒माः प्र॑माणा॒नि ॥ १.७॥
वि॒प॒र्य॒यो मि॑थ्याज्ञा॒नमतद्रूप॑प्रति॒ष्ठम् ॥ १.८॥
श॒ब्दज्ञा॒ना॒नुपा॒ती वस्तुशून्यो॑ विक॒ल्पः ॥ १.९॥
अ॒भा॒वप्रत्ययालम्बना वृ॑त्तिर्नि॒द्रा ॥ १.१०॥
अ॒नु॒भूतविषया॒सम्प्रमोषः॑ स्मृ॒तिः ॥ १.११॥
अ॒भ्या॒सवै॒रा॒ग्या॒भ्यां त॑न्निरो॒धः ॥ १.१२॥
त॒त्र स्थि॒तौ य॑त्नोऽभ्या॒सः ॥ १.१३॥
स॒ तु दी॒र्घकालनै॒रन्तर्यस॒त्कारा॒सेवि॒तो दृ॑ढभू॒मिः ॥ १.१४॥
दृ॒ष्टानुश्रविकवि॒ष॒यवि॒तृष्णस्य व॒शीकारसंज्ञा॑ वैरा॒ग्यम् ॥ १.१५॥