Religious Woarld Smart Search


Sort :
Loading...
Go to Page :

महर्षि पतञ्जलि प्रणीतं योगदर्शनम्

महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥

॥ प्रथमोऽध्यायः ॥  ॥ समा॑धि-पा॒दः ॥

अ॒थ योगानु॑शास॒नम् ॥ १.१॥

योगश्चित्तवृत्ति॑निरो॒धः ॥ १.२॥

त॒दा द्र॒ष्टुः स्व॒रू॒पेऽ॑वस्था॒नम् ॥ १.३॥

वृत्तिसारूप्यमि॑तर॒त्र ॥ १.४॥

वृ॒त्त॒यः पञ्चतय्यः क्लि॑ष्टाऽक्लि॒ष्टाः ॥ १.५॥

प्र॒मा॒णवि॒प॒र्ययवि॒क॒ल्पनि॒द्रास्मृ॒तयः॑ ॥ १.६॥

प्र॒त्यक्षा॒नु॒माना॒ग॒माः प्र॑माणा॒नि ॥ १.७॥

वि॒प॒र्य॒यो मि॑थ्याज्ञा॒नमतद्रूप॑प्रति॒ष्ठम् ॥ १.८॥

श॒ब्दज्ञा॒ना॒नुपा॒ती वस्तुशून्यो॑ विक॒ल्पः ॥ १.९॥

अ॒भा॒वप्रत्ययालम्बना वृ॑त्तिर्नि॒द्रा ॥ १.१०॥

अ॒नु॒भूतविषया॒सम्प्रमोषः॑ स्मृ॒तिः ॥ १.११॥

अ॒भ्या॒सवै॒रा॒ग्या॒भ्यां त॑न्निरो॒धः ॥ १.१२॥

त॒त्र स्थि॒तौ य॑त्नोऽभ्या॒सः ॥ १.१३॥

स॒ तु दी॒र्घकालनै॒रन्तर्यस॒त्कारा॒सेवि॒तो दृ॑ढभू॒मिः ॥ १.१४॥

दृ॒ष्टानुश्रविकवि॒ष॒यवि॒तृष्णस्य व॒शीकारसंज्ञा॑ वैरा॒ग्यम् ॥ १.१५॥

त॒त्प॒रं पु॒रु॒षख्या॒तेर्गुण॑वैतृ॒ष्ण्यम् ॥ १.१६॥

वि॒त॒र्कवि॒चा॒रा॒नन्दा॒स्मि॒तारूपा॒नु॒ग॒मात् स॑म्प्रज्ञा॒तः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्)

वि॒रा॒मप्रत्यया॒भ्या॒सपू॒र्वः सं॒स्कारशे॒षोऽ॒न्यः ॥ १.१८॥

भ॒वप्र॒त्य॒यो विदेहप्रकृति॑लया॒नाम् ॥ १.१९॥

श्र॒द्धावी॒र्यस्मृ॒तिस॒मा॒धिप्र॒ज्ञापूर्वक इ॑तरे॒षाम् ॥ १.२०॥

तीव्रसंवेगाना॑मास॒न्नः ॥ १.२१॥

मृ॒दुम॒ध्या॒धिमा॒त्र॒त्वात् ततोऽपि॑ विशे॒षः ॥ १.२२॥

ईश्वरप्रणि॑धाना॒द्वा ॥ १.२३॥

क्ले॒शक॒र्मवि॒पा॒का॒श॒यैर॒प॒रामृष्टः पुरुषविशेष॑ ईश्व॒रः ॥ १.२४॥

त॒त्र नि॒र॒तिश॒यं सर्वज्ञ॑बी॒जम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्)

स पू॒र्वेषामपि गुरुः कालेनान॑वच्छे॒दात् ॥ १.२६॥

त॒स्य वा॒चकः प्र॒णवः॑ ॥ १.२७॥

तज्ज॒पस्तदर्थ॑भाव॒नम् ॥ १.२८॥

त॒तः प्र॒त्यक्चे॒त॒ना॒धिग॒मोऽ॒प्यन्तराया॑भाव॒श्च ॥ १.२९॥

व्या॒धिस्त्या॒नसं॒शयप्र॒मा॒दा॒लस्या॒वि॒र॒ति-

भ्रा॒न्तिदर्शना॒ल॒ब्धभू॒मिकत्वा॒न॒व॒स्थि॒त॒त्वानि

चि॒त्तवि॒क्षे॒पास्तेऽ॑न्तरा॒याः ॥ १.३०॥

दुः॒खदौ॒र्मनस्या॒ङ्ग॒मेजयत्वश्वा॒सप्र॒श्वा॒सा विक्षेपस॑हभु॒वः ॥ १.३१॥

तत्प्र॒ति॒षे॒धा॒र्थमेकत॑त्त्वाभ्या॒सः ॥ १.३२॥

मै॒त्रीक॒रु॒णामु॒दि॒तो॒पे॒क्षा॒णां सु॒खदुः॒खपुण्यापुण्यवि॑षया॒णां

भा॒वनातश्चित्त॑प्रसा॒दनम् ॥ १.३३॥

प्र॒च्छर्दनवि॒धा॒र॒णा॒भ्यां वा॑ प्राण॒स्य ॥ १.३४॥

वि॒ष॒य॒व॒ती वा प्र॒वृ॒त्तिरु॒त्प॒न्ना म॒न॒सः स्थि॑तिनि॒ब॒न्धि॒नी ॥ १.३५॥

विशोका वा॑ ज्योतिष्म॒ती ॥ १.३६॥

वीतरागविषयं॑ वा चि॒त्तम् ॥ १.३७॥

स्व॒प्ननि॒द्राज्ञानाल॑म्बनं॒ वा ॥ १.३८॥

यथाभिमत॑ध्याना॒द्वा ॥ १.३९॥

प॒र॒माणु प॒र॒मम॒ह॒त्त्वान्तोऽस्य व॑शीका॒रः ॥ १.४०॥

क्षी॒णवृ॒त्तेर॒भिजातस्येव॑ म॒णेर्ग्र॒ही॒तृग्र॒ह॒णग्रा॒ह्येषु

तत्स्थतद॒ञ्ज॒न॒ता स॑माप॒त्तिः ॥ १.४१॥

तत्र श॒ब्दा॒र्थज्ञा॒नवि॒क॒ल्पैः स॒ङ्की॒र्णा स॒वि॒त॒र्का स॑माप॒त्तिः ॥ १.४२॥

स्मृ॒ति॒प॒रि॒शु॒द्धौ स्व॒रू॒पशू॒न्येवा॒र्थमा॒त्रनि॒र्भा॒सा नि॑र्वित॒र्का ॥ १.४३॥

ए॒तयैव स॒वि॒चा॒रा नि॒र्वि॒चा॒रा च सूक्ष्मविषया॑ व्याख्या॒ता ॥ १.४४॥

सू॒क्ष्मवि॒ष॒य॒त्वं चालिङ्गपर्य॑वसा॒नम् ॥ १.४५॥

ता एव सबीजः॑ समा॒धिः ॥ १.४६॥

नि॒र्वि॒चारवै॒शा॒र॒द्येऽध्यात्म॑प्रसा॒दः ॥ १.४७॥

ऋ॒त॒म्भ॒रा त॑त्र प्र॒ज्ञा ॥ १.४८॥

श्रु॒ता॒नुमानप्र॒ज्ञा॒भ्याम॒न्यवि॒ष॒या विशे॑षार्थ॒त्वात् ॥ १.४९॥

त॒ज्जः॒ सं॒स्कारोऽन्यसंस्कारप्र॑तिब॒न्धी ॥ १.५०॥

त॒स्या॒पि नि॒रो॒धे स॒र्वनि॒रो॒धान्निर्बी॑जः समा॒धिः ॥ १.५१॥

॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समा॑धि-पा॒दः ॥

॥ द्वितीयोऽध्यायः ॥  ॥ साध॑न-पा॒दः ॥

त॒पः॒स्वा॒ध्यायेश्वरप्रणिधानानि क्रि॑यायो॒गः ॥ २.१॥

स॒मा॒धिभा॒वनार्थः क्ले॒शत॒नू॒क॒र॒णा॒र्थश्च ॥ २.२॥

अ॒वि॒द्या॒स्मि॒तारा॒गद्वे॒षा॒भि॒नि॒वे॒शाः क्ले॒शाः ॥ २.३॥

अ॒वि॒द्या क्षे॒त्रमु॑त्तरे॒षां प्र॒सु॒प्तत॒नुवि॒च्छि॒न्नो॑दारा॒णाम् ॥ २.४॥

अ॒नि॒त्या॒शु॒चिदुः॒खा॒ना॒त्मसु नि॒त्यशु॒चिसु॒खात्मख्याति॑र॒वि॒द्या ॥ २.५॥

दृ॒ग्द॒र्शनश॒क्त्योरे॒का॒त्म॒तेवा॑स्मि॒ता ॥ २.६॥

सु॒खा॒नुश॒यी रागः ॥ २.७॥

दुः॒खा॒नुश॒यी द्वेषः ॥ २.८॥

स्व॒र॒सवा॒ही वि॒दु॒षोऽपि त॒था॒रूढोऽ॒भि॒नि॒वेशः ॥ २.९॥

ते प्र॒तिप्र॒स॒वहे॒याः सू॒क्ष्माः ॥ २.१०॥

ध्या॒नहे॒यास्तद्वृत्तयः ॥ २.११॥

क्ले॒शमू॒लः क॒र्मा॒श॒यो दृ॒ष्टादृष्टजन्मवे॑दनी॒यः ॥ २.१२॥

स॑ति मू॒ले त॑द्विपा॒को जात्या॑युर्भो॒गाः ॥ २.१३॥

ते ह्ला॒दप॒रि॒ताप॑फ॒लाः पुण्यापुण्यहे॑तु॒त्वात् ॥ २.१४॥

प॒रि॒णामतापसं॒स्कार॑दुः॒खैर्गु॒णवृ॒त्तिवि॒रो॒धाच्च

दुः॒खमेव सर्वं॑ विवे॒किनः ॥ २.१५॥

हे॒यं दुः॒खम॑नाग॒तम् ॥ २.१६॥

द्र॒ष्टृ॒दृश्य॒योः सं॒यो॒गो हे॑यहे॒तुः ॥ २.१७॥

प्र॒का॒शक्रि॒यास्थि॑तिशी॒लं भू॒तेन्द्रियात्म॒कं

भो॒गापवर्गा॒र्थं दृ॒श्यम् ॥ २.१८॥

वि॒शे॒षाविशेषलि॒ङ्ग॒मा॒त्रालिङ्गानि गुण॑पर्वा॒णि ॥ २.१९॥

द्र॒ष्टा दृ॑शिमा॒त्रः शु॒द्धोऽपि प्र॒त्यया॑नुप॒श्यः ॥ २.२०॥

त॒द॒र्थ ए॒व दृ॑श्यस्या॒त्मा ॥ २.२१॥

कृ॒ता॒र्थं प्र॑ति न॒ष्टमप्य॒न॒ष्टं तदन्यसाधा॑रण॒त्वात् ॥ २.२२॥

स्वस्वा॒मिश॒क्त्योः स्व॒रू॒पोपलब्धिहेतुः सं॒योगः ॥ २.२३॥

त॒स्य हेतु॑र॒वि॒द्या ॥ २.२४॥

त॒द॒भा॒वात् सं॒यो॒गाभा॒वो हा॒नं तद्दृशेः᳚ कैव॒ल्यम् ॥ २.२५॥

वि॒वे॒कख्यातिर॒वि॒प्ल॒वा हा॑नोपा॒यः ॥ २.२६॥

त॒स्य स॒प्त॒धा प्रान्तभूमिः॑ प्र॒ज्ञा ॥ २.२७॥

योगाङ्गानु॑ष्ठा॒नाद॒शु॒द्धिक्ष॒ये ज्ञा॒नदी॒प्तिरा विवेक॑ख्या॒तेः ॥ २.२८॥

य॒मनि॒य॒मा॒सनप्रा॒णायामप्र॒त्या॒हारधा॒र॒णाध्या॒नस॒मा॒धयोऽष्टा॑वङ्गा॒नि ॥ २.२९॥

अ॒हिं॒सास॒त्या॒स्ते॒यब्र॒ह्म॒चर्या॒प॒रि॒ग्र॒हा य॒माः ॥ २.३०॥

जा॒तिदे॒शका॒लस॒म॒या॒न॒व॒च्छि॒न्नाः सा॒र्वभौ॒मा म॑हाव्र॒तम् ॥ २.३१॥

शौ॒चस॒न्तोषतपःस्वा॒ध्यायेश्वरप्रणिधानानि॑ निय॒माः ॥ २.३२॥

वि॒त॒र्कबा॒ध॒ने प्रतिपक्ष॑भाव॒नम् ॥ २.३३॥

वि॒त॒र्का हिं॒सादयः कृ॒तका॒रि॒ता॒नु॒मो॒दि॒ता लो॒भक्रो॒धमो॒हपू॒र्व॒का

मृ॒दुम॒ध्या॒धि॒मा॒त्रा दुः॒खा॒ज्ञा॒ना॒न॒न्तफ॒ला इति प्र॒तिपक्ष॑भाव॒नम् ॥ २.३४॥

अ॒हिं॒साप्र॑तिष्ठा॒यां तत्स॒न्नि॒धौ वै॑रत्या॒गः ॥ २.३५॥

स॒त्यप्र॑तिष्ठा॒यां क्रि॒याफला॑श्रय॒त्वम् ॥ २.३६॥

अ॒स्ते॒यप्र॑तिष्ठा॒यां सर्वरत्नो॑पस्था॒नम् ॥ २.३७॥

ब्र॒ह्म॒च॒र्यप्र॑तिष्ठा॒यां वी॑र्यला॒भः ॥ २.३८॥

अप॒रि॒ग्र॒ह॒स्थै॒र्ये ज॒न्मक॒थ॒न्तासम्बोधः ॥ २.३९॥

शौ॒चात् स्वा॒ङ्गजु॒गु॒प्सा प॒रैर॑संस॒र्गः ॥ २.४०॥

स॒त्त्वशु॒द्धिसौ॒मनस्यै॒काग्र्येन्॒द्रियजया॒त्मदर्शनयोग्य॑त्वानि॒ च ॥ २.४१॥

स॒न्तो॒षादनुत्तमसु॑खला॒भः ॥ २.४२॥

का॒येन्द्रियसिद्धिर॒शु॒द्धिक्ष॒यात् तपसः ॥ २.४३॥

स्वा॒ध्या॒याद् इ॒ष्टदे॒व॒तासम्प्रयोगः ॥ २.४४॥

स॒मा॒धिसि॒द्धिरीश्वरप्र॑णिधा॒नात् ॥ २.४५॥

स्थिरसुख॑म् आस॒नम् ॥ २.४६॥

प्र॒य॒त्नशैथिल्यानन्तस॑माप॒त्ति॒भ्याम् ॥ २.४७॥

ततो द्व॒न्द्वान॑भिघा॒तः ॥ २.४८॥

त॒स्मिन्सति श्वा॒सप्र॒श्वा॒स॒योर्ग॒ति॒वि॒च्छेदः प्रा॑णाया॒मः ॥ २.४९॥

बा॒ह्या॒भ्यन्तरस्त॒म्भवृ॒त्तिर्दे॒शका॒लस॒ङ्ख्याभिः

प॒रि॒दृ॒ष्टो दी॑र्घसू॒क्ष्मः ॥ २.५०॥

बा॒ह्या॒भ्यन्तरवि॒ष॒या॒क्षे॒पी चतुर्थः ॥ २.५१॥

त॒तः॒ क्षी॒य॒ते प्रकाशा॑वर॒णम् ॥ २.५२॥

धा॒र॒णासु च योग्यता॑ मन॒सः ॥ २.५३॥

स्ववि॒ष॒या॒स॒म्प्रयो॒गे चि॒त्त॒स्व॒रूपानुकार॑ इ॒वे॒न्द्रि॒या॒णां प्र॑त्याहा॒रः ॥ २.५४॥

त॒तः॒ प॒र॒मा वश्यते॑न्द्रिया॒णाम् ॥ २.५५॥

॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साध॑न-पा॒दः ॥

॥ तृतीयोऽध्यायः ॥  ॥ विभू॑ति-पा॒दः ॥

दे॒शबन्धश्चित्तस्य॑ धार॒णा ॥ ३.१॥

त॒त्र प्रत्ययैकतान॑ता ध्या॒नम् ॥ ३.२॥

त॒दे॒वा॒र्थमा॒त्रनि॒र्भा॒सं स्व॒रूपशून्यमिव॑ समा॒धिः ॥ ३.३॥

त्रयमेकत्र॑ संय॒मः ॥ ३.४॥

तज्ज॒यात्प्र॑ज्ञालो॒कः ॥ ३.५॥

तस्य भूमि॑षु वि॒नि॒योगः ॥ ३.६॥

त्र॒यमन्तरङ्गं॑ पूर्वे॒भ्यः ॥ ३.७॥

त॒द॒पि ब॒हि॒र॒ङ्गं नि॑र्बीज॒स्य ॥ ३.८॥

व्यु॒त्थाननि॒रो॒धसं॒स्कार॒योर॒भि॒भ॒वप्रा॑दुर्भा॒वौ

नि॒रो॒धक्षणचि॒त्तान्व॒यो निरोधप॑रिणा॒मः ॥ ३.९॥

तस्य प्र॒शान्तवाहिता॑ संस्का॒रात् ॥ ३.१०॥

स॒र्वार्थतै॒काग्र॒त॒योः क्ष॒यो॒द॒यौ चि॒त्तस्य स॒माधिप॑रिणा॒मः ॥ ३.११॥

त॒तः पु॒नः शा॒न्तोदि॒तौ तु॒ल्यप्र॒त्य॒यौ चि॒त्तस्यैकाग्रताप॑रिणा॒मः ॥ ३.१२॥

ए॒तेन भू॒तेन्द्रियेषु ध॒र्मल॒क्ष॒णा॒व॒स्थाप॒रि॒णा॒मा व्या॑ख्या॒ताः ॥ ३.१३॥

शा॒न्तो॒दि॒ता॒व्य॒प॒देश्यधर्मानुपा॑ती ध॒र्मी ॥ ३.१४॥

क्रमान्यत्वं परिणामान्य॑त्वे हे॒तुः ॥ ३.१५॥

प॒रि॒णा॒म॒त्र॒य॒सं॒य॒माद् अतीतानाग॑तज्ञा॒नम् ॥ ३.१६॥

श॒ब्दार्थप्र॒त्य॒या॒नामि॒त॒रेत॒राध्या॒सात्

सङ्करस्तत्प्र॒वि॒भागसं॒य॒मात्सर्वभूतरु॑तज्ञा॒नम् ॥ ३.१७॥

सं॒स्कारसा॒क्षात्क॒र॒णात्पूर्वजा॑तिज्ञा॒नम् ॥ ३.१८॥

प्र॒त्ययस्य परचि॑त्तज्ञा॒नम् ॥ ३.१९॥

न॒ च तत्सा॒लम्ब॒नं तस्याविषयी॑भूत॒त्वात् ॥ ३.२०॥

का॒यरू॒पसं॒य॒मात्तद्ग्रा॒ह्यश॒क्तिस्त॒म्भे

च॒क्षुःप्र॒का॒शास॒म्प्रयो॒गेऽ॑न्तर्धा॒नम् ॥ ३.२१॥

सो॒पक्र॒मं नि॒रु॒पक्र॒मं च कर्म

तत्सं॒य॒माद॒प॒रा॒न्तज्ञा॒नमरि॑ष्टेभ्यो॒ वा ॥ ३.२२॥

मैत्र्यादि॑षु ब॒ला॒नि ॥ ३.२३॥

बलेषु हस्तिब॑लादी॒नि ॥ ३.२४॥

प्र॒वृ॒त्त्यालो॒कन्या॒सात्सूक्ष्मव्यवहितविप्रकृ॑ष्टज्ञा॒नम् ॥ ३.२५॥

भुवनज्ञानं सूर्ये॑ संय॒मात् ॥ ३.२६॥

चन्द्रे ताराव्यू॑हज्ञा॒नम् ॥ ३.२७॥

ध्रुवे तद्ग॑तिज्ञा॒नम् ॥ ३.२८॥

नाभिचक्रे कायव्यू॑हज्ञा॒नम् ॥ ३.२९॥

कण्ठकूपे क्षुत्पिपासा॑निवृ॒त्तिः ॥ ३.३०॥

कू॒र्मना॒ड्यां स्थै॒र्यम् ॥ ३.३१॥

मूर्धज्योतिषि सिद्ध॑दर्श॒नम् ॥ ३.३२॥

प्रा॒तिभा॒द्वा स॒र्वम् ॥ ३.३३॥

हृ॒द॒ये चि॑त्तसं॒वित् ॥ ३.३४॥

स॒त्त्वपु॒रु॒ष॒योर॒त्य॒न्तास॒ङ्कीर्ण॒योः प्र॒त्य॒यावि॒शे॒षो भोगः

प॒रा॒र्थ॒त्वात्स्वा॒र्थसं॒य॒मात्पुरु॑षज्ञा॒नम् ॥ ३.३५॥

त॒तः प्रा॒तिभश्रा॒वणवे॒दना॒दर्शास्वादवार्ता॑ जाय॒न्ते ॥ ३.३६॥

ते स॒मा॒धावु॑पस॒र्गा व्युत्थाने॑ सिद्धयः ॥ ३.३७॥

ब॒न्ध॒का॒रणशै॒थि॒ल्यात्प्र॒चा॒रसं॒वेद॒नाच्च

चि॒त्तस्य परशरी॑रावे॒शः ॥ ३.३८॥

उ॒दा॒नज॒याज्जलप॒ङ्कक॒ण्ट॒कादिष्व॒स॒ङ्ग उ॑त्क्रान्ति॒श्च ॥ ३.३९॥

समानज॑याज्ज्व॒ल॒नम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्)

श्रो॒त्राका॒श॒योः स॒म्ब॒न्धसं॒य॒माद्दिव्यं श्रो॒त्रम् ॥ ३.४१॥

का॒याका॒श॒योः स॒म्ब॒न्धसं॒य॒माल्ल॒घुतूल-

स॒मा॒प॒त्तेश्चाका॑शग॒म॒नम् ॥ ३.४२॥

ब॒हि॒र॒क॒ल्पि॒ता वृत्तिर्म॒हा॒वि॒दे॒हा ततः प्र॒का॒शावरणक्षयः ॥ ३.४३॥

स्थू॒लस्व॒रू॒पसू॒क्ष्मा॒न्वया॒र्थ॒व॒त्त्वसं॒य॒माद्भू॑तज॒यः ॥ ३.४४॥

त॒तो॒ऽणि॒मादिप्रादुर्भावः का॒यस॒म्पत्त॒द्ध॒र्मानभि॑घात॒श्च ॥ ३.४५॥

रू॒पला॒वण्यबलव॒ज्रसं॒ह॒न॒न॒त्वानि का॑यस॒म्पत् ॥ ३.४६॥

ग्र॒ह॒णस्व॒रू॒पा॒स्मि॒ता॒न्वया॒र्थ॒व॒त्त्वसं॒य॒मादिन्द्रि॑यज॒यः ॥ ३.४७॥

त॒तो॒ म॒नो॒ज॒वि॒त्वं विकरणभावः प्रधान॑जय॒श्च ॥ ३.४८॥

स॒त्त्वपु॒रु॒षा॒न्य॒ताख्या॒तिमा॒त्रस्य स॒र्वभा॒वाधि॒ष्ठातृ॒त्वं

सर्वज्ञा॑तृत्वं॒ च ॥ ३.४९॥

तद्वै॒राग्यादपि दोषबीजक्षये॑ कैव॒ल्यम् ॥ ३.५०॥

स्था॒न्यु॒प॒नि॒म॒न्त्र॒णे स॒ङ्गस्म॒याक॒र॒णं पुनरनिष्ट॑प्रस॒ङ्गात् ॥ ३.५१॥

क्ष॒णतत्क्र॒म॒योः सं॒य॒माद्विवेक॑जं ज्ञा॒नम् ॥ ३.५२॥

जा॒ति॒ल॒क्षणदे॒शैर॒न्य॒तान॒व॒च्छे॒दात् तु॒ल्य॒योस्त॒तः प्र॑तिप॒त्तिः ॥ ३.५३॥

ता॒र॒कं स॒र्ववि॒ष॒यं सर्वथा॑विष॒यम॒क्र॒मञ्चेति विवेक॑जं ज्ञा॒नम् ॥ ३.५४॥

स॒त्त्वपु॒रु॒ष॒योः शु॒द्धिसाम्ये॑ कैव॒ल्यमिति ॥ ३.५५॥

॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभू॑ति-पा॒दः ॥

॥ चतुर्थोऽध्यायः ॥  ॥ कैव॑ल्य-पा॒दः ॥

ज॒न्मौ॒षधिम॒न्त्रत॒पःस॒मा॒धि॒जाः सि॒द्धयः॑ ॥ ४.१॥

जा॒त्यन्तरपरिणामः प्रकृ॑त्यापू॒रात् ॥ ४.२॥

नि॒मि॒त्त॒म॒प्र॒यो॒ज॒कं प्र॒कृ॒ती॒नां वरणभेदस्तु

त॒तः क्षेत्रि॑क॒वत् ॥ ४.३॥

नि॒र्माणचि॒त्तान्यस्मि॑तामा॒त्रात् ॥ ४.४॥

प्र॒वृ॒त्तिभे॒दे प्र॒योज॒कं चित्तमेकम॑नेके॒षाम् ॥ ४.५॥

त॒त्र ध्या॒न॒जम॑नाश॒यम् ॥ ४.६॥

क॒र्माशु॒क्लाकृ॒ष्णं योगिनस्त्रिविधमि॑तरे॒षाम् ॥ ४.७॥

त॒तस्तद्वि॒पा॒कानुगु॒णा॒नामेवा॒भि॒व्यक्तिर्वा॑सना॒नाम् ॥ ४.८॥

जा॒तिदे॒शका॒लव्य॒व॒हि॒ता॒नामप्या॒नन्त॒र्यं

स्मृ॒तिसं॒स्कार॒योरेक॑रूप॒त्वात् ॥ ४.९॥

ता॒साम॒ना॒दि॒त्वं चाशिषो॑ नित्य॒त्वात् ॥ ४.१०॥

हे॒तुफ॒ला॒श्रया॒लम्ब॒नैः स॒ङ्गृ॒ही॒त॒त्वादे॒षाम॒भा॒वे त॑दभा॒वः ॥ ४.११॥

अ॒ती॒तानागतं स्व॒रू॒पतोऽ॒स्त्य॒ध्वभेदा॑द्धर्मा॒णाम् ॥ ४.१२॥

ते व्य॒क्तसू॒क्ष्मा गु॑णात्मा॒नः ॥ ४.१३॥

प॒रि॒णा॒मै॒क॒त्वाद्व॑स्तुत॒त्त्वम् ॥ ४.१४॥

व॒स्तुसा॒म्ये चि॒त्तभे॒दात्त॒योर्विभ॑क्तः प॒न्थाः ॥ ४.१५॥

न चै॒कचि॒त्त॒त॒न्त्रं वस्तु तद॒प्र॒मा॒ण॒कं त॑दा किं॒ स्यात् ॥ ४.१६॥

तदु॒प॒रा॒गापे॒क्षि॒त्वाच्चि॒त्त॒स्य व॒स्तु ज्ञा॑ताज्ञा॒तम् ॥ ४.१७॥

स॒दा ज्ञा॒ताश्चि॒त्तवृत्तयस्तत्प्र॒भोः पुरुषस्यापरि॑णामि॒त्वात् ॥ ४.१८॥

न तत्स्वाभासं॑ दृश्य॒त्वात् ॥ ४.१९॥

एकसमये चोभयानव॑धार॒णम् ॥ ४.२०॥

चि॒त्ता॒न्तरदृ॒श्ये बु॒द्धिबु॒द्धेर॒ति॒प्रसङ्गः स्मृ॒तिस॑ङ्कर॒श्च ॥ ४.२१॥

चि॒तेर॒प्र॒ति॒स॒ङ्क्र॒मा॒यास्त॒दा॒का॒राप॒त्तौ स्वबुद्धिसं॑वेद॒नम् ॥ ४.२२॥

द्र॒ष्टृदृ॒श्यो॒प॒र॒क्तं चित्तं॑ सर्वा॒र्थम् ॥ ४.२३॥

त॒द॒स॒ङ्ख्येयवा॒सनाभिश्चि॒त्र॒म॒पि प॒रा॒र्थं संहत्य॑कारि॒त्वात् ॥ ४.२४॥

वि॒शे॒षदर्शिन आत्मभावभावना॑विनिवृ॒त्तिः ॥ ४.२५॥

त॒दा वि॒वे॒कनि॒म्नं कैवल्यप्राग्भा॑रं चि॒त्तम् ॥ ४.२६॥

तच्छि॒द्रेषु प्रत्ययान्तराणि सं॑स्कारे॒भ्यः ॥ ४.२७॥

हा॒नमे॒षां क्लेश॑वदु॒क्तम् ॥ ४.२८॥

प्र॒स॒ङ्ख्या॒नेऽप्यकुसीदस्य स॒र्व॒था

वि॒वे॒कख्या॒तेर्धर्ममेघः॑ समा॒धिः ॥ ४.२९॥

त॒तः क्लेशकर्म॑निवृ॒त्तिः ॥ ४.३०॥

त॒दा सर्वावरणम॒ला॒पेतस्य ज्ञा॒नस्या॒न॒न्त्याज्ज्ञे॑यम॒ल्पम् ॥ ४.३१॥

त॒तः कृ॒ता॒र्था॒नां परिणामक्रमसमाप्ति॑र्गुणा॒नाम् ॥ ४.३२॥

क्ष॒ण॒प्र॒ति॒यो॒गी प॒रि॒णा॒मापरान्तनिर्ग्रा॑ह्यः क्र॒मः ॥ ४.३३॥

पु॒रु॒षार्थशू॒न्या॒नां गु॒णा॒नां प्रतिप्रसवः कै॒व॒ल्यं

स्व॒रू॒पप्र॒ति॒ष्ठा॒ वा चि॒तिश॑क्तिरि॒ति ॥ ४.३४॥

॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैव॑ल्य-पा॒दः ॥

॥ इति श्री पातञ्जल-योग-सूत्राणि ॥

Translate